#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00350 Uniform title: pratyabhijñahṛdaya Text version Commentator : kṣemarāja Editor : Chatterji J C Description: E-text transcribed from volume 3 of the Kashmir Series of Texts and Studies. Notes: This e-text was transcribed by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: June 26, 2016 Publisher : Research Department, Jammu and Kashmir State Publication year : 1911 Publication city : Srinagar Publication country : India #################################################### प्. १) ओं नमो मङ्गलमूर्तये | अथ प्रत्यभिज्ञाहृदयम् | नमः शिवाय सततं पञ्चकृत्यविधायिने | चिदानन्दघनस्वात्मपरमर्थावभासिने || १ || शांकरोपनिषत्सारप्रत्यभिज्ञामहोदधेः | क्षेमेणोद्ध्रियते सारः संसारविषशान्तये [क्, ख्, ग्: उद्धरामि परं सारं संसारविषशान्तिदम् || इति पाठः] || २ || इह ये सुकुमारमतयोऽकृततीक्ष्णतर्कशास्त्रपरिश्रमाः [ग्: कृततीक्ष्णशास्त्र इति पाठः] शक्तिपातोन्मिषित##- शक्तिपातवशोन्मिषत्पारमेश्वरेति पाठः; ग्: समावेशाभिलाषाः इति पाठः] कतिचित् भक्तिभाजः तेषाम् ईश्वरप्रत्यभिज्ञोपदेशतत्त्वं [तत्त्वं हि चिदानन्दैषणाज्ञानक्रियाणां सुस्फुटत्वतः | शिव-शक्ति-सदीशान-विद्याख्यं तत्त्वपञ्चकम् || इति पञ्चकत्वेन आम्नातम् | उन्मील्यते इति तेषां कृते संक्षिप्य प्रकटीक्रियते इति वाक्यार्थः |] मनाक् उन्मील्यते | प्. २) तत्र स्वात्मदेवताया एव सर्वत्र [ख्, ङ्: सर्वत्र इति पदं नास्ति] कारणत्वं सुखोपायप्राप्यत्वं महाफलत्वं च अभिव्यङ्क्तुमाह [क्, ग्: महाफलाभिव्यक्तिं चाह इति पाठः |] चितिः स्वतन्त्रा विश्वसिद्धिहेतुः || १ || विश्वस्य - सदाशिवादेः भूम्यन्तस्य सिद्धौ-निष्पत्तौ प्रकाशने स्थित्यात्मनि [ख्, ङ्: स्वे चेत्यात्मनि इति पाठः] परप्रमातृविश्रान्त्यात्मनि च संहारे पराशक्तिरूपा चितिः एव भगवती स्वतन्त्रा - अनुत्तरविमर्शमयी [ख्, ङ्: तन्त्रानन्तविमर्शमयी इति पाठः] शिवभट्टारकाभिन्ना हेतुः - कारणम् | अस्यां हि प्रसरन्त्यां जगत् उन्मिषति व्यवतिष्ठते च निवृत्तप्रसरायां च [ख्, ग्: च इति पदं नास्ति] निमिषति - इति स्वानुभव एव अत्र साक्षी | अन्यस्य तु मायाप्रकृत्यादेः चित्प्रकाशभिन्नस्य अप्रकाशमानत्वेन [ख्: अप्रकाशत्वेन इति पाठः] असत्त्वात् न क्वचिदपि हेतुत्वम् [ङ्: असत्त्वादपि न क्वचित् हेतुत्वम् इति पाठः] प्रकाशमानत्वे तु प्रकाशैकात्म्यात् प्रकाशरूपा चितिरेव [ख्, ङ्: चिदेव इति पाठः] हेतुः प्. ३) न त्वसौ कश्चित् [ग्: न त्वन्यः कश्चिदिति पाठः] | अत एव देशकालाकारा [यदुक्तम् देशकालाकारभेदः संविदो नहि युज्यते | तस्मादेकैव पूर्णाहं-विमर्शात्मा चिदुच्यते || इति |] एतत्सृष्टा एतदनुप्राणिताश्च [क्, ग्: एतत्प्राणिता इति पाठः] नैतत्स्वरूपं भेत्तुमलम् - इति व्यापक-नित्योदित-परिपूर्णरूपा इयम् [क्: परिपूर्णोऽयम् इति; ग्: परिपूर्णेयम् इति पाठः] | - इत्यर्थलभ्यमेव [क्, ग्, ङ्: इत्ययत्रलभ्यमेव इति पाठः] एतत् | ननु जगदपि चितो भिन्नं नैव किञ्चित् अभेदे च कथं हेतुहेतुमद्भावः [क्: कथं हेतुसद्भाव इति पाठः] ? उच्यते | चिदेव भगवती स्वच्छस्वतन्त्ररूपा तत्तदनन्तजगदात्मना [क्, ग्, ङ्: जगदात्मना विश्वरूपेण इति पाठः] स्फुरति- इत्येतावत्परमार्थोऽयं कार्यकारणभावः | यतश्च इयमेव [क्: अतश्चेयमिति; ङ्: यत् च इयमेवेति पाठः] प्रमातृ-प्रमाण-प्रमेय-मयस्य विश्वस्य सिद्धौ-प्रकाशने हेतुः ततोऽस्याः स्वतन्त्रापरिच्छिन्नस्वप्रकाशरूपायाः [ख्, ङ्: स्वतन्त्राविच्छिन्नेति पाठः] प्. ४) सिद्धौ अभिनवार्थप्रकाशनरूपं [ख्, ग्: सिद्धौ प्रकाशनेऽभिनवार्थप्रकाशनेति; क्: अभिनवप्रकाशरूपम् इति पाठः] न प्रमाणवराकमुपयुक्तम् उपपन्नं वा [नहि सूर्यप्रकाशने दीपान्तरमुपयुज्यते इति भावः |] | तदुक्तं त्रिकसारे स्वपदा स्वशिरश्छायां यद्वल्लङ्घितुमीहते | पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला [यो लङ्घितुमीहते तस्य यथा पादोद्देशे शिरो न स्यात् तथा इयमित्यत्र संबन्धः |] || इति | यतश्च इयं विश्वस्य सिद्धौ पराद्वयसामरस्यापादनात्मनि च संहारे हेतुः तत एव [क्, ङ्: अत एवेति पाठः] स्वतन्त्रा | प्रत्यभिज्ञातस्वातन्त्र्या सती भोगमोक्षस्वरूपाणां [ख्, ङ्: प्रत्यभिज्ञातस्वातन्त्र्या भोगमोक्षसिद्धीनां हेतुः इति पाठः] विश्वसिद्धीनां हेतुः | - इति आवृत्त्या व्याख्येयम् | अपि च विश्वं - नील-सुख-देह-प्राणादि [नीलं बहिरिन्द्रियगम्यम् सुखमन्तरिन्द्रियगम्यम् प्राणादि जीवचेष्टागम्यम् |] तस्य या सिद्धिः - प्रमाणोपारोहक्रमेण [क्: प्रमाणोपहारक्रमेण इति; ग्: प्रमाणोपाहरणक्रमेणेति पाठः] विमर्शमयप्रमात्रावेशः [ख्: विमर्शमात्रावेश इति पाठः] सैव [यथा दूरस्थस्य अग्नेः अनुमितौ धूमः साधनं तद्वदित्यर्थः |] हेतुः [ख्, ङ्: स एव हेतुरिति पाठः] - परिज्ञाने उपायो यस्याः | प्. ५) अनेन च सुखोपायत्वमुक्तम् | यदुक्तं श्रीविज्ञानभट्टारके ग्राह्यग्राहकसंवित्तिः [क्: ग्राह्यग्राहकसंबन्ध इति पाठः] सामान्या सर्वदेहिनाम् | योगिनां तु विशेषोऽयं संबन्धे सावधानता || इति | चितिः - इति एकवचनं देशकालाद्यनवच्छिन्नताम् अभिदधत् [क्: अवच्छिन्नतामेवाभिधत् इति पाठः] समस्तभेदवादानाम् अवास्तवतां व्यनक्ति | स्वतन्त्र-शब्दो ब्रह्मवादवैलक्षण्यम् आचक्षाणः चितो माहेश्वर्यसारतां ब्रूते [क्: माहेश्वरतां ब्रूते इति; ख्, ङ्: माहेश्वरसारताम् इति पाठः] | विश्व इत्यादिपदम् अशेषशक्तित्वं [अशेषशक्तिमत्त्वम् इति पाठः] सर्वकारणत्वं सुखोपायत्वं महाफलं च आह || १ || ननु विश्वस्य यदि चितिः हेतुः तत् अस्या [ङ्: तदा अस्या इति पाठः] उपादानाद्यपेक्षायां भेदवादापरित्यागः स्यात् - इत्याशङ्क्य आह स्वेच्छया स्वभित्तौ विश्वमुन्मी लयति || २ || स्वेच्छया न तु ब्रह्मादिवत् अन्येच्छया प्. ६) तयैव च [क्: तथैव चेति पाठः] न तु उपादानाद्यपेक्षया - एवं हि प्रागुक्तस्वातन्त्र्यहान्या चित्त्वमेव [क्:चित्तत्त्वमेव इति पाठः] न घटेत-स्वभित्तौ न तु अन्यत्र क्वापि प्राक् निर्णीतं विश्वं दर्पणे नगरवत् [क्, ग्: दर्पणनगरवत् इति समस्तः पाठः] अभिन्नमपि भिन्नमिव उन्मीलयति | उन्मीलनं च अवस्थितस्यैव [क्: उन्मीलयतीत्यनन्तरम् अवभासयति इत्यप्यधिकः पाठोस्ति] प्रकटीकरणम् | - इत्यनेन जगतः प्रकाशैकात्म्येन अवस्थानम् उक्तम् || २ || अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयितुमाह तन्नाना अनुरूपग्राह्यग्राहक- भेदात् || ३ || तत् विश्वं नाना-अनेकप्रकारम् | कथं ? अनुरूपाणां [ख्: अनणुरूपाणाम् इति पाठः] - परस्परौचित्यावस्थितीनां ग्राह्याणां ग्राहकाणां [ग्राहकाः सप्त प्रमातारः ते च (१) शिवः (२) मन्त्रमहेश्वराः (३) मन्त्रेश्वराः (४) मन्त्राः (५) विज्ञानाकलाः (६) प्रलयाकलाः (७) सकलाः इत्यागमप्रसिद्धाः |] च भेदात् [क्: ग्राहकताभेदात् इति पाठः] ##- प्. ७) सदाशिवतत्त्वे अहन्ताच्छादित-अस्फुटेदन्तामयं [क्: अहन्ताच्छादितेऽपि स्फुटे इदन्तामयम् इति पाठः] यादृशं परापररूपं विश्वं ग्राह्यं तादृगेव श्रीसदाशिवभट्टारकाधिष्ठितो मन्त्रमहेश्वराख्यः [ख्: भट्टारको मन्त्रमहेश्वराख्य इति पाठः] प्रमातृवर्गः परमेश्वरेच्छावकल्पिततथावस्थानः | ईश्वरतत्त्वे स्फुटेदन्ताहन्तासामानाधिकरण्यात्म [क्: समानाधिकारात्म इति; ग्: सामानाधिकरण्यात्मतया इति पाठः] यादृक् विश्वं ग्राह्यं तथाविध एव ईश्वरभट्टारकाधिष्ठितो मन्त्रेश्वरवर्गः | विद्यापदे [ग्: विद्यातत्त्वे इति; ख्: विद्यापदेश-श्रीमत् इति पाठः] श्रीमदनन्तभट्टारकाधिष्ठिता बहुशाखावान्तरभेदभिन्ना [ग्: अधिष्ठितानन्तबहुशाखेति; क्: बहुशाखा अवान्तर भिन्ना इति; ख्: अधिष्ठितबहुशाखेति पाठः] यथाभूता मन्त्राः प्रमातारः तथाभूतमेव भेदैकसारं विश्वमपि प्रमेयम् | मायोर्ध्वे यादृशा विज्ञानाकलाः कर्तृताशून्यशुद्धबोधात्मानः [ख्: कर्तृत्वशून्येति पाठः] तादृगेव तदभेदसारं [ख्: अभेदसारसकलेति समस्तः पाठः] सकल-प्रलयाकलात्मक-पूर्वावस्थापरिचितम् एषां प्रमेयम् | मायायां शून्यप्रमातॄणां [क्: मायायाः प्रमातॄणामिति पाठः] प्रलयकेवलिनां स्वो- प्. ८) चितं प्रलीनकल्पं प्रमेयम् | क्षितिपर्यन्तावस्थितानां [क्: स्थितिपर्यन्तेति पाठः] तु सकलानां सर्वतो भिन्नानां परिमितानां तथाभूतमेव प्रमेयम् | तदुत्तीर्णशिवभट्टारकस्य प्रकाशैकवपुषः प्रकाशैकरूपा एव भावाः | श्रीमत्परमशिवस्य पुनः विश्वोत्तीर्ण-विश्वात्मक##- ग्राहकं वा अपि तु श्रीपरमशिवभट्टारक एव इत्थं नानावैचित्र्यसहस्रैः [ङ्: इत्थमित्थमेतदिति नानाविधवैचित्र्येति पाठः] स्फुरति | - इत्यभिहितप्रायम् || ३ || यथा च भगवान् विश्वशरीरः तथा [यथा च इत्या अवतरणिकावाक्यपाठः ख्, ङ् पुस्तकाभ्यामुपन्यस्त] चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः || ४ || श्रीपरमशिवः स्वात्मैक्येन स्थितं विश्वं सदाशिवाद्युचितेन [ग्: सदाशिवाद्युदितेनेति; ख्, ङ्: सदाशिवाभ्युदितेन इति पाठः] रूपेण अवबिभासयिषुः पूर्वं प्. ९) चिदैक्याख्यातिमयानाश्रितशिवपर्याय-शून्यातिशून्यात्मतया प्रकाशाभेदेन प्रकाशमानतया स्फुरति ततः चिद्रसाश्यानतारूपाशेषतत्त्वभुवन [क्, ग्: रसाश्यानरूपः अशे.ष० इति पाठः] -भाव-तत्तत्प्रमात्राद्यात्मतयापि प्रथते | यथा च एवं भगवान् विश्वशरीरः तथा चितिसंकोचात्मा संकुचितचिद्रूपः [क्: असंकुचित इति पाठः] चेतनो ग्राहकोऽपि वटधानिकावत् संकुचिताशेषविश्वरूपः | तथा च सिद्धान्तवचनम् विग्रहो विग्रही चैव सर्वविग्रहविग्रही | इति | त्रिशिरोमतेऽपि सर्वदेवमयः कायस्तं चेदानीं [ख्: कालस्तच्चेदानीम् इति पाठः] शृणु प्रिये | पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम् || इत्युपक्रम्य त्रिशिरोभैरवः साक्षाद्व्याप्य विश्वं व्यवस्थितः || इत्यन्तेन ग्रन्थेन ग्राहकस्य संकुचितविश्वमयत्वमेव [ख्, ङ्: ग्राहकेण संकुचितेति०; ग्: ग्राहकेणासंकुचित० इति पाठः] व्याहरति | अयं च अत्राशयः - ग्राहकोऽपि अयं प्रकाशै- प्. १०) कात्म्येन उक्तागमयुक्त्या च विश्वशरीरशिवैकरूप एव केवलं तन्मायाशक्त्या अनभिव्यक्तस्वरूपत्वात् [ख्: केवलं मायाशक्त्यनभिव्यक्तेति पाठः] संकुचित इव [ख्: एव इति पाठः] आभाति संकोचोऽपि विचार्यमाणः चिदैकात्म्येन प्रथमानत्वात् चिन्मय [यदुक्तं न्यायभूषणे कर्तृकर्मादिकारकलक्षणविचारे | संभूय कारकाणां क्रियाजनकत्वे हि तुल्यव्यापारत्वात् कः साधकतमार्थः स्वतन्त्रार्थो वा इति सार्वपारिषदं व्याकरणं विरुध्येत | अत एव ज्ञातृव्यापारस्य प्रमाणत्वमाहुः स च ज्ञातृव्यापारः चिद्रूपे ज्ञातरि तादात्म्येन स्थितत्वात् बोधात्मकः इति | तथा च अत्रैव विवक्षातः कारकाणि भवन्ति इति | यथा चितिः विश्वं साधयति चितिमासाद्य विश्वं भवति चित्या विश्वमीश्वरः करोति चितेः विश्वं भवति चितेः विकारो विश्वं भवति चितौ विश्वं स्थितमिति |] एव अन्यथा तु न किंचित् | - इति सर्वो ग्राहको विश्वशरीरः शिवभट्टारक एव [क्: विश्वशरीरशिवभट्टारक एवेति पाठः] | तदुक्तं मयैव अख्यातिर्यदि न ख्याति ख्यातिरेवावशिष्यते | ख्याति चेत् ख्यातिरूपत्वात् [क्: ख्यातिः ख्यातिरेव इति; ग्: यदि ख्यातिश्चेत् ख्यातिरेव इति पाठः] ख्यातिरेवावशिष्यते || इति | अनेनैव आशयेन श्रीस्पन्दशास्त्रेषु प्. ११) यस्मात्सर्वमयो जीवः ......................... | इत्युपक्रम्य तेन शब्दार्थचिन्तासु [ख्, ङ्: तस्माच्छब्दार्थेति; ग्: तस्मात्सर्वार्थ इति पाठः] [अन्यथा तटः पिपतिषति इत्यादि-शब्दार्थचिन्तासु निश्चेतनस्य तटस्य कथमिच्छा घटेत |] न सावस्था न यः शिवः || इत्यादिना शिवजीवयोरभेद एव उक्तः [ङ्: जीवशिवयोरभेद उक्त इति पाठः; ङ्: एव पदं नास्ति] | एतत्तत्त्वपरिज्ञानमेव मुक्तिः एतत्तत्त्वापरिज्ञानमेव च बन्धः - इति भविष्यति एव एतत् || ४ || ननु ग्राहकोऽयं विकल्पमयः विकल्पनं च चित्तहेतुकं सति च चित्ते कथमस्य शिवात्मकत्वम् ? - इति शङ्कित्वा चित्तमेव निर्णेतुमाह चितिरेव चेतनपदादवरूढा चेत्य- संकोचिनी [ख्, ङ्: चेत्यभावैः संकोचिनी इति पाठः] चित्तम् || ५ || न चित्तं नाम अन्यत् किंचित् अपि तु सैव [क्: चितिरेवेति चित्तं न चान्यत्किंचित् इति; ग्: चित्तं नान्यत् किंचित् अपि तु सैव इति पाठः] भगवती तत् | तथा हि सा स्वं स्वरूपं प्. १२) गोपयित्वा यदा संकोचं [क्, ग्: संकोचं इति पदं नास्ति] गृह्णाति तदा द्वयी गतिः कदाचित् उल्लसितमपि संकोचं गुणीकृत्य चित्प्राधान्येन स्फुरति कदाचित् संकोचप्रधानतया | चित्प्राधान्यपक्षे सहजे प्रकाशमात्रप्रधानत्वे विज्ञानाकलता [ग्: प्रधानविज्ञानाकलता इति पाठः] प्रकाशपरामर्शप्रधानत्वे तु विद्याप्रमातृता | तत्रापि क्रमेण संकोचस्य तनुतायाम् [क्: संकोचांशतनुतायाम् इति; संकोचतनुतायाम् इति पाठः] ईश-सदाशिवानाश्रितरूपता | समाधिप्रयत्नोपार्जिते तु चित्प्रधानत्वे [ग्: समाधिप्रयत्नोपार्जितेन चित्प्रधानत्वेन इति पाठः] शुद्धाध्वप्रमातृता क्रमात्क्रमं प्रकर्षवती | संकोचप्राधान्ये [क्: संकोचांशप्राधान्येन इति पाठः] तु शून्यादिप्रमातृता | एवमवस्थिते सति [ङ्: एवमेव स्थिते सति इति पाठः] चितिरेव संकुचितग्राहकरूपा चेतनपदात् अवरूढा - अर्थग्रहणोन्मुखी [क्: असंकुचितग्राहकरूपाच्चेतनादवरूढार्थग्रहेति पाठः] सती चेत्येन-नील-सुखादिना संकोचिनी उभयसंकोचसंकुचितैव चित्तम् | तथा च प्. १३) स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या | मायातृतीये ते एव पशोः सत्त्वं रजस्तमः || इत्यादिना स्वातन्त्र्यात्मा [ग्: इति प्रत्यभिज्ञोक्तनीत्या स्वातन्त्र्येति पाठः] चितिशक्तिरेव ज्ञानक्रिया-मायाशक्तिरूपा पशुदशायां संकोचप्रकर्षात् [क्: संकोचप्रकाशात् इति पाठः] सत्त्व##- [ग्: श्रीप्रत्यभिज्ञायामुक्तम् इति वाक्यं नास्ति] | अत एव श्रीतत्त्वगर्भस्तोत्रे विकल्पदशायामपि तात्त्विकस्वरूपसद्भावात् तदनुसरणाभिप्रायेण [ख्: तदनुसारिणा इति पाठः] उक्तम् अत एव तु ये केचित्परमार्थानुसारिणः [क्: अत एव तु केषांचित्परमार्थेति पाठः] | तेषां तत्र स्वरूपस्य [ग्, ङ्: तेषां तत्रापि रूपस्य (तत्रापि विकल्पदशायामपि) इति पर्यायोपेतः पाठः] स्वज्योतिष्ट्वं न लुप्यते || इति || ५ || चित्तमेव तु मायाप्रमातुः स्वरूपम् - इत्याह तन्मयो मायाप्रमाता || ६ || देहप्राणपदं तावत् चित्तप्रधानमेव [ङ्: देहप्राणपदात् तावच्चित्तं प्रधानमेव इति पाठः] शून्य- प्. १४) भूमिरपि चित्तसंस्कारवत्येव अन्यथा ततो व्युत्थितस्य स्वकर्तव्यानुधावनाभावः स्यात् - इति चित्तमय एव मायीयः प्रमाता | अमुनैव आशयेन शिवसूत्रेषु वस्तुवृत्तानुसारेण [ग्: वस्तुवृत्त्यनुसारेण इति पाठः] चैतन्यमात्मा [चैतन्यमात्मा इति चेतयते इति चेतनः सर्वेष् ज्ञानेषु सर्वासु च क्रियासु स्वतन्त्रः तस्य भावः चैतन्यं सर्वज्ञानक्रियासंबन्धमयं परिपूर्णं स्वातन्त्र्यं तच्च परमशिवस्यैव भगवतः संभवति नान्येषां तत्परतन्त्राणामिति प्रथमसूत्रमुक्त्वा पुनः तृतीयोन्मेषे चित्तमात्मा इत्युक्तम् | अस्यार्थः यदेतत् विषयवासनाच्छुरितत्वात् नित्यं तदध्यवसायादिव्यापारबुद्ध्यहंकृन्मनोरूपं चित्तं तदेव अतति चिदात्मकस्वस्वरूपाख्यात्या सत्त्वादिवृत्त्यवलम्बनेन योनीः संचरति इति आत्मा अणुरित्यर्थः न तु चिदेकरूपस्य अस्य अतनमस्ति अत एव चैतन्यमात्मा इति स्वभावभूततात्त्विकैतत्स्वरूपप्रतिपादनाशयेन पूर्वमात्मा लक्षितः अनेन तु एतदीयसंकोचावभासप्रधानाणवदशौचित्येन इति न पूर्वापरवैषम्यम् | ] (१-१) इत्यभिधाय मायाप्रमातृलक्षणावसरे पुनः चित्तमात्मा (३-१) इत्युक्तम् || ६ || अस्यैव सम्यक् स्वरूपज्ञानात् यतो मुक्तिः असम्यक् तु संसारः ततः तिलश एतत्स्वरूपं निर्भङ्क्तुमाह [ग्: विभङ्कुम् इति पाठः] प्. १५) स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः || ७ || निर्णीतदृशा चिदात्मा शिवभट्टारक एव एक आत्मा न तु अन्यः कश्चित् प्रकाशस्य देशकालादिभिः भेदायोगात् जडस्य तु ग्राहकत्वानुपपत्तेः | प्रकाश एव यतः [ख्, ग्, ङ्: एव च इति पाठः] स्वातन्त्र्यात् गृहीतप्राणादिसंकोचः संकुचितार्थग्राहकतामश्नुते ततः असौ प्रकाशरूपत्व-संकोचावभासवत्त्वाभ्यां द्विरूपः | आणव [वामदेवेन च मलत्रयस्वरूपमभिहितमस्ति | यथा गोपितस्वमहिम्नोऽस्य संमोहाद्विस्मृतात्मनः | यः संकोचः स एवास्मिन्नाणवो मल उच्यते || १ || षट्कञ्चुकव्याप्तिवशाद्विलोपितनिजस्थितेः | भूतदेहस्थितिर्यासौ मायीयो मल उच्यते || २ || यदन्तःकरणाधीनबुद्धिकर्मेन्द्रियादिभिः | बहिर्व्याप्रियते कार्मं मलमेतस्य तन्मतम् || ३ || तत्र आणवेनैकेन मलेन संयुक्तो विज्ञानाकलः द्वाभ्यामाणव##- मायीय-कार्ममलावृतत्वात् [ग्: मायीयाणवकार्ममलिनत्वात् इति पाठः] त्रिमयः [क्: मलान्त्रिमय इति पाठः] | शून्य##- प्. १६) शरीरस्वभावत्वात् चतुरात्मा | सप्तपञ्चकानि - शिवादिपृथिव्यन्तानि [क्: पञ्चकानि पृथिव्यन्तानि इति शिवादि पदहीनः पाठः] पञ्चत्रिंशत्तत्त्वानि तत्स्वभावः | तथा शिवादि-सकलान्त##- चिदानन्देच्छा-ज्ञान-क्रियाशक्तिरूपत्वेऽपि अख्यातिवशात् कला##- च शिवैकरूपत्वेन [ख्, ङ्: शिवैकत्वेन इति पाठः] पञ्चत्रिंशत्तत्त्वमयत्वेन प्रमातृसप्तकस्वभावत्वेन चिदादिशक्तिपञ्चकात्मकत्वेन च अयं प्रत्यभिज्ञायमानो मुक्तिदः अन्यथा तु संसारहेतुः || ७ || एवं च तद्भूमिकाः सर्वदर्शनस्तितयः || ८ || सर्वेषां चार्वाकादिदर्शनानां स्थितयः - सिद्धान्ताः तस्य एतस्य आत्मनो नटस्येव स्वेच्छावगृहीताः कृत्त्रिमा भूमिकाः [क्, ङ्: कृत्त्रिमभूमय इति पाठः] | तथा च चैतन्यविशिष्टं शरीरमात्मा | इति चार्वाकाः | प्. १७) नैयायिकादयो ज्ञानादिगुणगणाश्रयं बुद्धितत्त्वप्रायमेव आत्मानं संसृतौ मन्यन्ते अपवर्गे तु तदुच्छेदे शून्यप्रायम् | अहं-प्रतीतिप्रत्येयः सुखदुःखाद्युपाधिभिः [क्: अहं-प्रत्ययः सुखदुःखेत्यादि पाठः | ग्, ख्: दुःखाद्युपाध्यभिभूत आत्मेति पाठः] तिरस्कृतः आत्मा-इति मन्वाना मीमांसका अपि बुद्धावेव निविष्टाः | ज्ञानसंतान एव तत्त्वम् - इति सौगता बुद्धिवृत्तिषु एव पर्यवसिताः | प्राण एव आत्मा - इति केचित् श्रुत्यन्तविदः [क्: शून्यवादिन इति पाठः] | असदेव इदमासीत् - इत्यभावब्रह्मवादिनः शून्यभुवमवगाह्य स्थिताः | माध्यमिका अपि एवमेव | परा प्रकृतिः भगवान् वासुदेवः [क्: वासुदेवपदं नास्ति] तद्विस्फुलिङ्गप्राया एव जीवाः - इति पाञ्चरात्राः परस्याः प्रकृतेः परिणामाभ्युपगमात् अव्यक्ते एव अभिनिविष्टाः | प्. १८) सांख्यादयस्तु विज्ञानाकलप्रायां भूमिम् अवलम्बन्ते [ख्, ग्: अवतिष्ठन्ते इति पाठः] | सदेव इदमग्र आसीत्-इति ईश्वरतत्त्वपदमाश्रिता अपरे श्रुत्यन्तविदः [क्: शून्यान्तविद इति पाठः] | शब्दब्रह्ममयं पश्यन्तीरूपम् [क्: मयं रूपं पश्यति इति पाठः] आत्मतत्त्वम् - इति वैयाकरणाः श्रीसदाशिवपदमध्यासिताः | एवमन्यदपि अनुमन्तव्यम् | एतच्च आगमेषु बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वेवार्हताः स्थिताः | स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः || इत्यादिना निरूपितम् | विश्वोत्तीर्णमात्मतत्त्वम् - इति तान्त्रिकाः | विश्वमयम् - इति कुलाद्याम्नायनिविष्टाः | विश्वोत्तीर्णं विश्वमयं च - इति त्रिकादिदर्शनविदः [क्, ग्: दर्शनवादिन इति पाठः] | एवम् एकस्यैव चिदात्मनो भगवतः स्वातन्त्र्यावभासिताः सर्वा इमा भूमिकाः स्वातन्त्र्यप्रच्छादनोन्मीलनतारतम्यभेदिताः अत एक प्. १९) एव एतावद्व्याप्तिक [ग्: एतद्व्याप्त्या इति पाठः] आत्मा | मितदृष्टयस्तु अंशांशिकासु तदिच्छयैव अभिमानं ग्राहिताः येन देहादिषु भूमिषु [ख्, ग्: देहादिभूमिषु इति समस्तः पाठः] पूर्वपूर्वप्रमातृव्याप्तिसारताप्रथायामपि उक्तरूपां महाव्याप्तिं परशक्तिपातं विना न लभन्ते | यथोक्तम् वैष्णवाद्यास्तु ये केचिद्विद्यारागेण रञ्जिताः | न विदन्ति परं देवं सर्वज्ञं ज्ञानशालिनम् [क्: सर्वज्ञं ज्ञानशालिनम् इति श्लोकपादो नास्ति] || इति | तथा भ्रमत्येव तान्माया [क्, ग्: तन्माया इति पाठः] ह्यमोक्षे मोक्षलिप्सया | इति | त आत्मोपासकाः शैवं [ग्: अनात्मोपासका ह्येते इति पाठः] न गच्छन्ति परं पदम् || इति च | अपि च सर्वेषां दर्शनानां - समस्तानां नीलसुखादिज्ञानानां याः स्थितयः - अन्तर्मुखरूपा विश्रान्तयः ताः तद्भूमिकाः - चिदानन्दघनस्वात्मस्वरूपाभिव्यक्त्युपायाः [ग्: चिदानन्दात्मरूपेति पाठः] | तथा हि प्. २०) यदा यदा बहिर्मुखं रूपं स्वरूपे विश्राम्यति तदा तदा बाह्यवस्तूपसंहारः अन्तःप्रशान्तपदावस्थितिः तत्तदुदेष्यत्संवित्संतत्यासूत्रणम् - इति सृष्टि-स्थिति##- उद्वमन्ती संहरन्ती च सदा पूर्णा च [ख्, ङ्: संपूर्णा चेति पाठः] कृशा च उभय रूपा च अनुभयात्मा च अक्रममेव स्फुरन्ती [ग्: क्रमेणैव स्फुरन्ती इति पाठः] स्थिता | उक्तं च श्रीप्रतभिज्ञाटीकायाम् तावदर्थावलेहेन [ख्: अर्थावहेलेन इति; ङ्: अर्थावहेलना उत्तिष्ठन्ति इति पाठः | ग्: पूर्णा च भविष्यति इति च पाठः] उत्तिष्ठति पूर्णा च भवति इति | एषा च भट्टारिका क्रमात्क्रमम् अधिकमनुशील्यमाना स्वात्मसात्करोत्येव भक्तजनम् || ८ || यदि एवंभूतस्य आत्मनो विभूतिः तत् कथम् अयं मलावृतः अणुः कलादिवलितः संसारी अभिधीयते ? - इत्याह प्. २१) चिद्वत्तच्छक्तिसंकोचात् [ख्: चिद्विभुः शक्तिसंकोचेति पाठः] मलावृतः संसारी || ९ || यदा चिदात्मा परमेश्वरः स्वस्वातन्त्र्यात् अभेदव्याप्तिं [क्, ग्: स्वातन्त्र्याभेदवृत्तिव्याप्तिम् इति] निमज्ज्य भेदव्याप्तिम् [ङ्: अहेदप्राप्तिम् इति पाठः] अवलम्बते तदा तदीया इच्छादिशक्तयः असंकुचिता [क्: शक्तयः संकुचिता इति पाठः] अपि संकोचवत्यो भान्ति [ग्: भवन्ति इति पाठः] तदानीमेव च अयं मलावृतः संसारी भवति | तथा च अप्रतिहतस्वातन्त्र्यरूपा इच्छाशक्तिः संकुचिता सती अपूर्णंमन्यतारूपम् आणवं मलम् ज्ञानशक्तिः क्रमेण [क्: ज्ञानशक्तिक्रमेण इति पाठः] संकोचात् भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्वाप्तेः [ख्, ग्: भेदसर्वज्ञत्वकिंचिज्ज्ञत्वान्तःकरणेत्यादि पाठः] अनःकरण##- इति पाठः] भिन्नवेद्यप्रथारूपं मायीयं मलम् क्रियाशक्तिः क्रमेण [क्: क्रियाशक्तिक्रमेण इति पाठः] भेदे प्. २२) सर्वकर्तृत्वस्य किंचित्कर्तृत्वाप्तेः कर्मेन्द्रियरूपसंकोचग्रहणपूर्वम् [ख्, ग्: भेदसर्वकर्तृत्वकिंचित्कर्तृत्वकर्मेन्द्रियेत्यादि पाठः] अत्यन्तं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं मलम् | तथा सर्व-कर्तृत्व-सर्वज्ञत्व-पूर्णत्व-नित्यत्व##- संसारी उच्यते स्वशक्तिविकासे तु शिव एव || ९ || ननु संसार्यवस्थायाम् अस्य किंचित् शिवतोचितम् अभिज्ञानमस्ति [ङ्: शिवतोचितं किञ्चिदभिज्ञानमस्ति ? इति पाठः] येन शिव एव तथावस्थितः ? - इत्युद्घोष्यते [ख्: येन तथावस्थानः शिव एवेत्युद्घोष्यते इति पाठः] | अस्ति | इत्याह तथापि तद्वत् पञ्चकृत्यानि करोति || १० || इह ईश्वराद्वयदर्शनस्य ब्रह्मवादिभ्यः अयमेव विशेषः यत् [क्: यतः इति पाठः] सृष्टिसंहारकर्तारं विलयस्थितिकारकम् | अनुग्रहकरं देवं प्रणतार्तिविनाशनम् || प्. २३) इति श्रीमत्स्वच्छन्दादिशासनोक्तनीत्या सदा पञ्चविधकृत्यकारित्वं चिदात्मनो भगवतः | यथा च भगवान् शुद्धेतराध्वस्फारणक्रमेण स्वरूपविकासरूपाणि सृष्ट्यादीनि करोति तथा संकुचितचिच्छक्तितया [ङ्: तथा तथा संकुचच्छक्तितया इति पाठः] संसारभूमिकायामपि पञ्चकृत्यानि विधत्ते | तथा हि तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् | भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः || इति प्रत्यभिज्ञाकारिकोक्तार्थदृष्ट्या [ग्: प्रत्यभिज्ञाकारोक्तदृशा इति पाठः] देहप्राणादिपदम् आविशन् चिद्रूपो महेश्वरो [ख्: चिद्रूपमहेश्वर इति समस्तः पाठः] बहिर्मुखीभावावसरे नीलादिकमर्थं नियतदेशकालादितया यदा आभासयति तदा नियतदेशकालाद्याभासांशे अस्य [ख्, ङ्: अस्य पदं नास्ति] स्रष्टृता अन्यदेशकालाद्याभासांशे अस्य संहर्तृता नीलाद्याभासांशे स्थापकता भेदेन आभासांशे [क्: भेदनांशे इति; ङ्: भेदेनाभेदांशे इति पाठः] विलयकारिता प्रकाशैक्येन प्रकाशने अनुग्रहीतृता | यथा च प्. २४) सदा पञ्चविधकृत्यकारित्वं भगवतः तथा मया वितत्य स्पन्दसंदोहे निर्णीतम् | एवमिदं पञ्चविधकृत्यकारित्वम् [ख्, ङ्: पञ्चकृत्येति पाठः] आत्मीयं सदा दृढप्रतिपत्त्या परिशील्यमानं माहेश्वर्यम् उन्मीलयत्येव [ख्: माहेश्वर्यमेवोन्मीलयेत् इति पाठः] भक्तिभाजाम् | अत एव ये सदा एतत् [क्: सदैव तत् इति; ग्: सदैवैतत्परिशीलयन्त इति पाठः] परिशीलयन्ति ते स्वरूपविकासमयं विश्वं जानाना जीवन्मुक्ता##- बद्धात्मानः || १० || न च अयमेव प्रकारः पञ्चविधकृत्यकारित्वे [क्, ग्, ङ्: पञ्चकृत्यकारित्वे इति पाठः] यावत् अन्योऽपि कश्चित् रहस्यरूपोऽस्ति [क्: अन्यदपि किंचिद्रहस्यरूपमस्तीति पाठः] | - इत्याह आभासन [क्: आभासमान इति]-रक्ति-विमर्शन##- पन-विलापनतस्तानि [क्, ग्, ङ्: बीजावस्थानतद्विलापनेति पाठः] || ११ || पञ्चविधकृत्यानि [क्, ग्, ङ्: पञ्चकृत्यानि इति] करोति - इति पूर्वतः संबध्यते [क्, ग्: पूर्वेण संबन्ध इति च पाठः] | प्. २५) श्रीमन्महार्थदृष्ट्या दृगादिदेवीप्रसरणक्रमेण [क्: महादृगादिदेवीप्रसरणक्रमेणेति पाठः] यत् यत् आभाति तत् तत् सृज्यते तथा सृष्टे पदे [ङ्: पदे इति पदं नास्ति] तत्र यदा प्रशान्तनिमेषं कंचित् कालं रज्यति तदा स्थितिदेव्या तत् स्थाप्यते चमत्कारापरपर्यायविमर्शनसमये [ख्, ङ्: विमर्शसमये इति पाठः] तु संह्रियते | यथोक्तं श्रीरामेण समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः | परामृष्टश्च नष्टश्च त्वद्भक्तिबलशालिभिः [क्: भक्तिभरशालिभिरिति पाठः] || इति | यदा तु संह्रियमाणमपि एतत् अन्तः विचित्राशङ्कादिसंस्कारम् आधत्ते तदा तत् पुनः उद्भविष्यत्संसारबीजभावमापन्नं विलयपदम् अध्यारोपितम् | यदा पुनः तत् तथा अन्तः स्थापितम् अन्यत् वा [क्: पुनस्तदन्तस्तथा स्थापितमन्यदा इति पाठः] अनुभूयमानमेव हठपाकक्रमेण अलंग्रासयुक्त्या चिदग्निसाद्भावम् आपद्यते तदा पूर्णतापादनेन अनुगृह्यते एव | ईदृशं च पञ्चविधकृत्यकारित्वं [ग्: ईदृशपञ्चकृत्यकारिता सदा संनिहितापि इति पाठः] सर्वस्य प्. ८) सदा संनिहितमपि सद्गुरूपदेशं विना न प्रकाशते इति सद्गुरुसपर्यैव एतत्प्रथार्थम् अनुसर्तव्या [क्: सद्गुरूपसत्त्यैवेति अनुमन्तव्येति च पाठः] || ११ || यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति तस्य अवच्छादितस्वस्वरूपाभिः [क्: तस्य छादितस्वरूपाभिः इति पाठः; निजाभिः इति पदं ङ् पुस्तकादुपक्षिप्तम्] निजाभिः शक्तिभिः व्यामोहितत्वं [ग्: शक्तिव्यामोहितत्वं संसारित्वमित्याहेति पाठः] भवति | इत्याह तदपरिज्ञाने स्वशक्तिभिर्व्यामोहि- [ख्: स्वशक्तिव्यामोहितता इति; ङ्: शक्तिव्यामोहितत्वम् इति पाठः] तता संसारित्वम् || १२ || तस्य एतस्य सदा [क्, ग्: तदा इति पाठः] संभवतः पञ्चविधकृत्यकारित्वस्य अपरिज्ञाने - शक्तिपातहेतुकस्वबलोन्मीलनाभावात् अप्रकाशने स्वाभिः शक्तिभिः व्यामोहितत्वं - विविधलौकिकशास्त्रीयशङ्काशङ्कुकीलितत्वं यत् इदमेव संसारित्वम् | तदुक्तं श्रीसर्ववीरभट्टारके प्. २७) अज्ञानाच्छङ्कते लोकस्ततः सृष्टिश्च संहृतिः || इति | मन्त्रा वर्णात्मकाः सर्वे सर्वे वर्णाः शिवात्मकाः [क्, ग्: मन्त्राः शिवात्मका इति पाठः] || इति च | तथा हि-चित्प्रकाशात् अव्यतिरिक्ता नित्योदितमहामन्त्ररूपा [क्, ग्: नित्योदितमन्त्ररूपा इति पाठः] पूर्णाहंविमर्शमयी या इयं परा वाक्शक्तिः आदि-क्षान्तरूपाशेषशक्तिचक्रगर्भिणी [क्: आदिक्षान्तशेषशक्तीति पाठः] सा तावत् पश्यन्तीमध्यमादिक्रमेण [ख्, ङ्: मध्यमादिग्राहकेति पाठः] ग्राहकभूमिकां भासयति | तत्र च परारूपत्वेन स्वरूपम् अप्रथयन्ती [क्: स्वरूपं प्रथयन्तीति पाठः] मायाप्रमातुः अस्फुटासाधारणार्थावभासरूपां प्रतिक्षणं [क्, ग्: अर्थाभासां प्रतिक्षणे इति पाठः] नवनवां विकल्पक्रियामुल्लासयति शुद्धामपि च अविकल्पभूमिं तदाच्छादितामेव दर्शयति | तत्र च ब्राह्म्यादिदेवतादिष्ठितककारादिविचित्रशक्तिभिः व्यामोहितो [ख्, ङ्: शक्तिव्यामोहित इति पाठः] देहप्राणादिमेव परिमितम् अवशम् आत्मानं मन्यते मूढजनः | ब्राह्म्यादिदेव्यः पशुदशायां भेद- प्. २८) विषये सृष्टिस्थिती अभेदविषये च संहारं प्रथयन्त्य [क्: प्रयान्त्य इति पाठः] परिमितविकल्पपात्रतामेव संपादयन्ति पतिदशायां तु भेदे संहारम् अभेदे च सर्गस्थिती प्रकटयन्त्यः क्रमात्क्रमं विकल्पनिर्ह्रासनेन [क्: विकल्पह्रासेन इति पाठः] श्रीमद्भैरवमुद्रानुप्रवेशमयीं महतीम् अविकल्पभूमिमेव उन्मीलयन्ति | सर्वो [विज्ञानभैरवेपि सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः | स एवाहं शैवधर्म इति दार्ढ्याच्छिवो भवेत् || इति |] ममायं विभव इत्येवं परिजानतः [क्, ग्: इत्येवं परीत्यादि-पादत्रयहीनः पाठः] | विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता || इत्यादिरूपां चिदानन्दावेशमग्नां शुद्धविकल्पशक्तिम् [क्, ग्: नन्दावेशसाराम् इति अशुद्धां विकल्पशक्तिमिति च; ख्: शुद्धविकल्पां शक्तिम् शुद्धामविकल्पेति पाठान्तरयुक्तः पाठः] उल्लासयन्ति | ततः उक्तनीत्या स्वशक्तिव्यामोहिततैव [क्: शक्तिभिर्व्यामोहितत्वम् इति पाठः] संसारित्वम् | किंच चितिशक्तिरेव भगवती विश्ववमनात् [क्: विश्वावसाननात् इति पाठः] प्. २९) संसारवामाचारत्वाच्च वामेश्वर्याख्या सती खेचरी-गोचरी-दिक्चरी##- बहिष्करणभावाभावस्यभावैरिति पाठः] परिस्फुरन्ती पशुभूमिकाभ्यां शून्यपदविश्रान्ता [क्: विश्रान्तकिंचित् इति पाठः] किंचित्कर्तृत्वाद्यात्मक-कलादिशक्त्यात्मना खेचरीचक्रेण [ख्: खेचरीक्रमेण इति; ग्: खेचरीत्वक्रमेणेति पाठः] गोपितपारमार्थिकचिद्गगनचरीत्वस्वरूपेण [क्: गगनचरीत्वक्रमेण इति पाठः] चकास्ति भेदनिश्चयाभिमान##- गोपिताभेदनिश्चयाद्यात्मकपारमार्थिकस्वरूपेण प्रकाशते भेदालोचनादिप्रधानबहिष्करणदेवतात्मना [क्, ग्: प्रधानताबहिष्करणेति पाठः] च दिक्चरीचक्रेण गोपिताभेदप्रथात्मकपारमार्थिकस्वरूपेण स्फुरति सर्वतो व्यवच्छिन्नाभासस्वभावप्रमेयात्मना च भूचरीचक्रेण गोपितसार्वात्म्यस्वरूपेण [ख्: सर्वात्मस्वरूपेणेति पाठः] पशुहृदयव्यामोहिना भाति | पतिभूमिकायां तु सर्व- प्. ३०) कर्तृत्वादिशक्त्यात्मकचिद्गगनचरीत्वेन अभेदनिश्चयाद्यात्मना गोचरीत्वेन अभेदालोचनाद्यात्मना दिक्चरीत्वेन स्वाङ्गकल्पाद्वयप्रथासारप्रमेयात्मना च भूचरीत्वेन पतिहृदयविकासिना [क्: पतिहृदये विकासिता इति पाठः] स्फुरति | तथा च उक्तं [तथा चेत्यारभ्य मुक्तिबन्धदा इत्यन्तः पाठः क्, ग् पु० नास्ति उपन्यस्तश्चात्र ख्, ङ् पुस्तकाभ्यां तत्र ङ् पु० पूर्णाविच्छिन्नमात्रास्तु इति पाठः] सहजचमत्कारपरिजनिताकृतकादरेण भट्टदामोदरेण विमुक्तकेषु पूर्णावच्छिन्नमात्रन्तर्बहिष्करणभावगाः | वामेशाद्याः परिज्ञानाज्ञानात्स्युर्मुक्तिबन्धदाः || इति | एवं च निजशक्तिव्यामोहिततैव संसारित्वम् | अपि च चिदात्मनः परमेश्वरस्य स्वा अनपायिनी [क्, ग्: सानपायिनीति पाठः] एकैव स्फुरत्तासारकर्तृतात्मा ऐश्वर्याशक्तिः [क्: स्फुरणसारा कर्तृता आत्मैश्वर्यशक्तिरिति पाठः] | सा यदा स्वरूपं गोपयित्वा [ख्: गूहयित्वा इति पाठः] पाशवे पदे प्. ३१) प्राणापान-समान-शक्तिदशाभिः जाग्रत्स्वप्न [आत्मा मनसा मन इन्द्रियेण इन्द्रियमर्थेन संयुज्यते इति चतुष्टयसंनिकर्षः जाग्रदवस्था | आत्मा मनसा मनो विषयेण इति त्रितयसंनिकर्षः स्वप्नावस्था | आत्मा विषयेण इति द्वयोः संनिकर्षः सुषुप्तिः | केवलात्मसंनिकर्षः तुर्या | निस्तरङ्गमहोदधिकल्पावस्थानं तु तुर्यातीतावस्था इति |] सुषुप्तभूमिभिः देह-प्राण-पुर्यष्टककलाभिश्च व्यामोहयति तदा तद्व्यामोहितता संसारित्वम् [क्: तदा व्यामोहता संसारीति पाठः] यदा तु मध्यमामोल्लासाम् उदानशक्तिं विश्वव्याप्तिसारां च व्यानशक्तिं [क्: धामोल्लासात् उदानशक्तिव्याप्तिसारां व्यानेति; ख्: उदानशक्तिं व्याप्तीति विश्वपदहीनः पाठः] तुर्यदशारूपां तुर्यातीतदशारूपां च चिदानन्दघनाम् उन्मीलयति तदा देसाद्यवस्थायामपि पतिदशात्मा जीवन्मुक्तिर्भवति | एवं त्रिधा स्वशक्तिव्यामोहितता व्याख्याता | चिद्वत् इति (९) सूत्रे चित्प्रकाशो गृहीतसंकोचः संसारी इत्युक्तम् इह तु स्वशक्तिव्यामोहितत्वेन अस्य संसारित्वं भवति - इति भङ्ग्यन्तरेण उक्तम् | एवं संकुचितशक्तिः प्राणादिमानपि यदा स्वशक्तिव्यामोहितो न भवति तदा अयम् प्. ३२) ............................... शरीरि परमेश्वरः [क्: परमेश्वर एवेति एव पदाधिकः पाठः] | इत्याम्नायस्थित्या शिवभट्टारक एव - इति भङ्ग्या निरूपितं भवति | यदागमः मनुष्यदेहमास्थाय छन्नास्ते परमेश्वराः | इति | उक्तं च प्रत्यभिज्ञाटीकायाम् शरीरमेव घटाद्यपि वा ये षट्त्रिंशत्तत्वमयं शिवरूपतया पश्यन्ति तेऽपि सिध्यन्ति [क्: शरीरमेव ये षट्त्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति अर्चयन्ति च तेपि सिध्यन्ति घटादिकमपि तथाभिनिविशन्ति तेपि इति नास्त्यत्र विवाद इत्युक्तसूत्रार्थेति पाठः] इति || १२ || उक्तसूत्रार्थप्रातिपक्ष्येण तत्त्वदृष्टिं दर्शयितुमाह तत्परिज्ञाने चित्तमेव अन्तर्मु- खीभावेन [क्, ग्: अन्तर्मुखीभावे चेतनेति पाठः] चेतनपदाध्यारो- [ख्: पदाद्यारोपात् इति पाठः] हात् चितिः || १३ || पूर्वसूत्रव्याख्याप्रसङ्गेन प्रमेयदृष्ट्या [क्: दृष्ट्या विततप्रायमेतत् शब्दसंगत्या व्याक्रियते इति पाठः] वितत्य प्. ३३) व्याख्याप्रायमेतत् सूत्रम् शब्दसंगत्या तु अधुना व्याख्यायते | तस्य आत्मीयस्य पञ्चकृत्यकारित्वस्य परिज्ञाने सति अपरिज्ञानलक्षणकारणापगमात् [क्, ग्: करणापगमादिति पाठः] स्वशक्तिव्यामोहिततानिवृत्तौ स्वातन्त्र्यलाभात् [क्: स्वातन्त्र्यालाभादिति पाठः] प्राक् व्याख्यातं यत् चित्तं तदेव संकोचिनीं बहिर्मुखतां [क्: संकोचिनी बहिर्मुखताइति पाठः] जगत् अन्तर्मुखीभावेन चेतनपदाध्यारोहात् - ग्राहकभूमिकाक्रमणक्रमेण संकोचकलाया अपि विगलनेन [ग्: विगलने इति सप्तमीनिर्दिष्टः पाठः] स्वरूपापत्त्या चितिर् भवति स्वां [तथा चोक्तम् स पुनः शाम्भवेच्छातः शिवाभेदं परामृशन् | क्रमान्मन्त्रेश-तन्नेतृरूपो याति शिवात्मताम् || इति] चिन्मयीं परां भूमिमाविशति [क्: पराभूमिम् इति समस्तः पाठः] इत्यर्थः || १३ || ननु यदि पारमार्थिकं चिच्छक्तिपदं सकलभेदकवलनस्वभावं तत् अस्य मायापदेऽपि तथारूपेण भवितव्यं यथा जलदाच्छादित- प्. ३४) स्यापि भानोः भावावभासकत्वम् | इत्याशङ्क्य आह चितिवह्निरवरोहपदे छन्नोऽपि मात्रया मेयेन्धनं प्लु- ष्यति || १४ || चितिरेव विश्वग्रसनशीलत्वात् वह्निः असौ एव अवरोहपदे [क्, ग्: चितिरेव ग्रसनेति विश्वपदहीनः असावारोहिपदे इति च पाठः] - मायाप्रमातृतायां छन्नोऽपि - स्वातन्त्र्यात् आच्छादितस्वभावोऽपि भूरिभूतिच्छन्नाग्निवत् मात्रया - अंशेन [ख्, ङ्: मात्रयाप्यचेतनया नीलेति; क्: पीतादिमेयमेवेन्धनमिति पाठः] नीलपीतादिप्रमेयेन्धनं प्लुष्यति - स्वात्मसात् करोति | मात्रापदस्य इदम् आकूतम् - यत् कवलयन् अपि सार्वात्म्येन न ग्रसते अपि तु अंशेन संस्कारात्मना उत्थापयति [ग्: सर्वात्मकत्वेनेति पाठः | क्, ग्: संस्कारात्मकं तत्स्थापयतीति च पाठः] | ग्रासकत्वं च सर्वप्रमातॄणां स्वानुभवत एव सिद्धम् | यदुक्तं श्रीमदुत्पलदेवपादैः निजस्तोत्रेषु प्. ३५) वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः | ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् || इति || १४ || यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य सर्गसंहारक्रमपरिशीलनयुक्तिम् [क्: सर्वसंहारेति पाठः] आविशति तदा बललाभे विश्वमात्मसात्क- रोति || १५ || चितिरेव देहप्राणाद्याच्छादननिमज्जनेन स्वरूपम् उन्मग्नत्वेन स्फारयन्ती बलम् यथोक्तं तदाक्रम्य बलं मन्त्राः....................... | इति | एवं च बललाभे - उन्मग्नस्वरूपाश्रयणे [क्: तन्मज्जनस्वरूपाश्रयेणेति; ग्: श्रयत्वेनेति पाठः] क्षित्यादि##- तदुक्तं [ग्: यथोक्तमिति पाठः] पूर्वगुरुभिः स्वभाषामयेषु क्रमसूत्रेषु यथा वह्निरुद्बोधितो दाह्यं दहति तथा विष- यपाशान् भक्षयेत् इति | प्. ३६) न चैवं वक्तव्यम् - विश्वात्मसत्काररूपा [ख्: विश्वात्मसाक्षात्कारेति पाठः] समावेशभूः कादाचित्की कथम् उपादेया [क्, ङ्: उपादेयमिति; ख्: उपादेया स्यादिति पाठः] इयं स्यात् इति यतो देहाद्युन्मज्जननिमज्जनवशेन इदम् अस्याः कादाचित्कत्वम् इव आभाति | वस्तुतस्तु चितिस्वातन्त्र्यावभासितदेहाद्युन्मज्जनात् [क्, ग्: स्वातन्त्र्यावभासितं देहेत्यादि पाठः; ख्: उन्मज्जनादि एवेति पाठः] एव कादाचित्कत्वम् | एषा तु सदैव प्रकाशमाना अन्यथा तत् देहादि अपि न प्रकाशेत | अत एव देहादिप्रमातृताभिमाननिमज्जनाय अभ्यासः [ङ्: निमज्जनया अभ्यास इति पाठः] न तु सदा प्रथमानतासारप्रमातृताप्राप्त्यर्थम् [ग्: सारपरप्रमातृता इति पाठः] इति श्रीप्रत्यभिज्ञाकाराः || १५ || एवं च चिदानन्दलाभे देहादिषु चेत्यमाने- [देहादिष्वपि चेत्येति पाठः] ष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः || १६ || विश्वात्मसात्कारात्मनि समावेशरूपे चिदानन्दे लब्धे व्युत्थानदशायां दलकल्पतया देहप्राणनीलसुखादिषु आभासमानेषु अपि प्. ३७) यत्समावेशसंस्कारबलात् प्रतिपादयिष्यमाणयुक्तिक्रमोपबृंहितात् [ख्, ङ्: मुक्तिक्रमेणेति पाठः] चिदैकात्म्यप्रतिपत्तिदार्ढ्यम् ##- सैव जीवन्मुक्तिः - जीवतः प्राणान् अपि धारयतो मुक्तिः प्रत्यभिज्ञातनिजस्वरूपविद्राविताशेषपाशराशित्वात् [ख्, ङ्: मुक्तिः निजस्वरूपविद्रावितेति पाठः | क्: रूपे विद्रावितेति पाठः] | यथोक्तं स्पन्दशास्त्रे इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् | स पश्यन्सततं [क्: संपश्यन् इति पाठः] युक्तो जीवन्मुक्तो न संशयः || इति || १६ || अथ कथं चिदानन्दलाभो भवति ? - इत्याह मध्यविकासाच्चिदानन्द- लाभः || १७ || सर्वान्तरतमत्वेन वर्तमानत्वात् तद्भित्तिलग्नतां विना च कस्यचित् अपि स्वरूपानुपपत्तेः [ग्: स्वात्मत्वानुपपत्तेः इति पाठः] संविदेव भगवती मध्यम् | सा तु मायादशायां तथाभूतापि स्वरूपं [ग्: स्वात्मस्वरूपमिति पाठः] गूहयित्वा प्. ३८) प्राक् संवित्प्राणे परिणता इति नीत्या प्राणशक्तिभूमिं [यथा सर्ववाहनसंपत्समृद्धोपि राजा स्वेच्छया पद्भ्यां गच्छति तथेयं संविद्भगवत्यपि स्वेच्छया परिमितप्रमात्रात्मदेहादिभूमिं स्वीकुरुते इति भावः] स्वीकृत्य अवरोहक्रमेण बुद्धिदेहादिभुवम् अधिशयाना नाडीसहस्रसरणिम् [ख्: नानानाडीति पाठः] अनुसृता | तत्रापि च पलाशपर्णमध्यशाखान्यायेन आ ब्रह्मरन्ध्रात् अधोवक्त्रपर्यन्तं प्राणशक्तिब्रह्माश्रयमध्यमनाडीरूपतया [क्: प्राणशक्तिर्ब्रह्माश्रयमध्यनाडीरूपत्वेनेति; प्राणब्रह्माश्रयेण मध्यमब्रह्मनाडीरूपतयेति; ग्: ब्रह्माशयेति पाठः] प्राधान्येन स्थिता तत एव सर्ववृत्तीनाम् [ख्: सर्वचित्तवृत्तीनामिति; ङ्: सर्ववृत्तीनां प्रलयात् इति पाठः] उदयात् तत्रैव च विश्रामात् [क्: विश्रमणादिति पाठः] | एवंभूतापि एषा पशूनां [पशवः अविज्ञातपरतत्त्वाः | तथा च अविज्ञाते परे तत्त्वे योगाभ्यासो हि निष्फलः | विज्ञाते च परे तत्त्वे योगाभ्यासो हि निष्फलः || इति] निमीलितस्वरूपैव स्थिता [ख्: स्वरूपावस्थितेति पाठः] | प्. ३९) यदा तु उक्तयुक्तिक्रमेण सर्वान्तरतमत्वे मध्यभूता [ख्, ङ्: तमत्वेन संभूता इति पाठः] संविद्भगवती विकसति यदि वा वक्ष्यमाणक्रमेण मध्यभूत ब्रह्मनाडी [ख्: मध्या ब्रह्मनाडीति पाठः] विकसति तदा तद्विकासात् चिदानन्दस्य उक्तरूपस्य लाभः - प्राप्तिर्भवति | ततश्च प्रागुक्ता जीवन्मुक्तिः || १७ || मध्यविकासे युक्तिमाह [ख्, ङ्: विकासे जीवन्मुक्तियुक्तिमिति पाठः] विकल्पक्षय-शक्तिसंकोचविकास- वाहच्छेदाद्यन्तकोटिनिभाल- नादय इहोपायाः [ख्: दयो ह्युपाया इति; क्: उपाय इत्येकवचनान्तः पाठः] || १८ || इह मध्यशक्तिविकासे विकल्पक्षयादय [ख्: सूत्रादनन्तरम् प्राणावारोहारोहच्छेदा विकल्पक्षयादय इति पाठः] उपायाः | प्रागुपदिष्टपञ्चविधकृत्यकारित्वाद्यनुसरणेन सर्वमध्यभूतायाः संविदो विकासो जायते - इति अभिहितप्रायम् | उपायान्तरम् अपि तु उच्यते - प्राणायाम-मुद्राबन्धादिसम- प्. ४०) स्तयन्त्रणातन्त्रत्रोटनेन [ख्: समस्तयन्त्रत्रोटनेनेति; ख्: हृदयनिहितेति च समस्तः पाठः] सुखोपायमेव हृदये निहितचित्तः [ग्: संनिहितेति] उक्तयुक्त्या स्वस्थितिप्रतिबन्धकं [क्: प्रतिबन्धनात् इति च पाठः] विकल्पम् अकिंचिच्चिन्तकत्वेन प्रशमयन् अविकल्पपरामर्शेन देहाद्यकलुषस्वचित्प्रमातृतानिभालनप्रवणः अचिरादेव उन्मिषद्विकासां तुर्य-तुर्यातीतसमावेशदशाम् आसादयति | यथोक्तम् विकल्पहानेनैकाग्र्यात्क्रमेणेश्वरतापदम् | इति श्रीप्रत्यभिज्ञायाम् | श्रीस्पन्देऽपि यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् || इति | श्रीज्ञानगर्भेऽपि विहाय सकलाः क्रिया जननि मानसीः सर्वतो विमुक्तकरणक्रियानुसृतिपारतन्त्र्योज्ज्वलम् | स्थितैस्त्वदनुभावतः [ख्: स्थितस्त्वदनुभावेति पाठः] सपदि वेद्यते सा परा दशा नृभिरतन्द्रितासमसुखामृतस्यन्दिनी [ख्: तन्द्रिता शमसुखेति पाठः] || इति | अयं च उपायो मूर्धन्यत्वात् [क्: मूर्धत्वादिति पाठः] प्रत्यभिज्ञायां प्. ४१) प्रतिपादितत्वात् आदौ उक्तः | शक्तिसंकोचादयस्तु [ख्: शक्तिसंकोचः प्रतिपादितः प्रदर्श्यते इत्येतेषामेकवचनत्वेनैव पाठः] यद्यपि प्रत्यभिज्ञायां न प्रतिपादिताः तथापि आम्नायिकत्वात् अस्माभिः प्रसङ्गात् प्रदर्श्यन्ते बहुषु [उपायेषु |] हि प्रदर्शितेषु कश्चित् केनचित् प्रवेक्ष्यति [क्: केन प्रविशेत् इति पाठः] इति | शक्तेः संकोच - इन्द्रियद्वारेण प्रसरन्त्या एव आकुञ्चनक्रमेण उन्मुखीकरणम् | यथोक्तम् आथर्वणिकोपनिषत्सु कठवल्ल्यां चतुर्थवल्लिप्रथममन्त्रे पराञ्चि खानि व्यतृणत्स्वयंभू- स्तस्मात्पराङ्पश्यति नान्तरात्मन् | कश्चिद्धिरः प्रत्यगात्मानमैक्षद् आवृत्तचक्षुरमृतत्वमश्नन् [क्: कश्चिद्धीमान् इति व्यावृत्तचक्षुरिति च पाठः | सर्वेषु मूलौपनिषदपुस्तकेषु मुद्रितेषु अमृतत्वमिच्छन् इति पाठः संदृश्यते |] || इति | प्रसृताया अपि वा कूर्माङ्गसंकोचवत् त्राससमये हृत्प्रवेशवच्च सर्वतो निवर्तनम् | यथोक्तम् प्. ४२) तदपोद्धृते नित्योदितस्थितिः [क्, ग्: नित्यस्थितिरिति पाठः] | इति | शक्तेर्विकासः अन्तर्निगूढाया अक्रममेव [क्: विकासोन्तर्विमूढाया अपि क्रममेव इति; ग्: विकासो मूढाया इति पाठः] सकलकरणचक्रविस्फारणेन अन्तर्लक्ष्यो बहिदृष्टिर्निमेषोन्मेषवर्जितः | इति | भैरवीयमुद्रानुप्रवेशयुक्त्या [भैरवीयमुद्रा खेचरीमुद्रा | तल्लक्षणं च यथा मनः स्थिरं यस्य विनावलम्बनं वायुः स्थिरो यस्य विनावरोधनम् | दृष्टिः स्थिरा यस्य विनावलोकनं स्यात्सैव मुद्रा विमला च खेचरी || इति |] बहिः प्रसरणम् | यथोक्तं कक्ष्यास्तोत्रे सर्वाः शक्तीश्चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् [ख्, ङ्: सम्यक् इति पाठः] | क्षिप्त्वा मध्ये हाटकस्तम्भभूत- स्तिष्ठन्विश्वाधार [क्, ग्: विश्वाकार इति पाठः] एकोऽवभासि || इति | श्रीभट्टकल्लटेनापि उक्तम् प्. ४३) रूपादिषु परिणामात् तत्सिद्धिः | इति | शक्तेश्च संकोचविकासौ [क्: विकास इत्येकवचनपाठः] नासापुटस्पन्दनक्रमोन्मिषत्सूक्ष्मप्राणशक्त्या भ्रूभेदनेन [ख्: स्वाभेदेन क्रमेति; ग्: भ्रूभेदसमासादिता इति पाठः] क्रमासादितोर्ध्वकुण्डलिनीपदे प्रसरविश्रान्तिदशापरिशीलनम् अधःकुण्डलिन्यां च षष्ठवक्त्ररूपायां [ख्: षष्ठचक्ररूपाम् इति; ग्: वक्ररूपायामिति पाठः] प्रगुणीकृत्य शक्तिं तन्मूल-तदग्र##- वह्नेर्विषस्य [षष्ठवक्त्रात्मनः शक्तेर्मूलभूर्वह्निः संकोचहेतुत्वात् प्रसरणात्मव्याप्तिहेतुर्विषं तयोर्मध्ये सृष्टिग्रन्थौ मध्यनाड्यात्मनि केवलमारोहावरोहविषयसंबन्धरहितं वायुपूर्णं वा मध्यनाडीस्थिताक्रमोच्चारानच्ककलात्मकप्राणभरितम् ईदृशं सुखमयं ह्लादात्मकं चित्तं भावनया क्षिपेत् ततः स्मरानन्देन युक्तो भवति सर्वविषयविस्मारकारणत्वात्कामानन्दस्य आनन्दान्तरेभ्यः परत्वात् इति |] मध्ये तु चित्तं सुखमयं क्षिपेत् | केवलं वायुपूर्णं वा स्मरानन्देन युज्यते || इति | अत्र वह्निः अनुप्रवेशक्रमेण संकोचभूः विषस्थानम् प्रसरयुक्त्या विकासपदम् [ख्: प्रसरन्त्या विकासेति पाठः] विषॢ व्याप्तौ इति अर्थानुगमात् [ख्: अर्थावगमात् इति पाठः] प्. ४४) वाहयोः - वामदक्षिणगतयोः [ग्: वामदक्षिणगत्योरिति पाठः] प्राणापानयोः छेदो - हृदयविश्रान्तिपुरःसरम् अन्तः ककारहकारादिप्रायानच्कवर्णोच्चारेण [क्: प्रायेणानच्कोच्चारेणेति; ख्: अनच्कवर्णोच्चारणे इति पाठः] विच्छेदनम् | यथोक्तं ज्ञानगर्भे अनच्कककृतायतिप्रसृतपार्श्वनाडीद्वय- च्छिदो विधृतचेतसो हृदयपङ्कजस्योदरे | उदेति तव दारितान्धतमसः स विद्याङ्कुरो य एष परमेशतां जनयितुं पशोरप्यलम् || इति | आदिकोटिः हृदयम् अन्तकोटिः द्वादशान्तः तयोः प्राणोल्लासविश्रान्त्यवसरे निभालनं - चित्तनिवेशनेन [क्: चितिनिवेशनेनेति पाठः] परिशीलनम् | यथोक्तं विज्ञानभैरवे हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः | अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् || इति | तथा यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् | प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् [क्: वैलक्ष्यं दिनशो भवेदिति; ख्: वैलक्षण्यं क्षणैर्भवेत् इति पाठः] || प्. ४५) इति | आदिपदात् उन्मेषदशानिषेवणम् [ख्, ङ्: दशापरिशीलनं विशेषेणेति पाठः] | यथोक्तम् उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् || इति स्पन्दे | तथा रमणीयविषयचर्वणादयश्च संगृहीताः | यथोक्तं श्रीविज्ञानभैरवे एव जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् | भावयेद्भरितावस्थां [ख्, ङ्: भैरवावस्थाम् इति] महानन्दमयो भवेत् [क्: सदानन्दस्ततो भवेदिति; महानन्दोदय इति मूले तु महान्दस्ततो भवेदिति पाठः] || गीतादिविषयास्वादासमसौख्यैकतात्मनः [क्: विषयास्वादात्समसौख्येति पाठः] | योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता [क्, ग्: मनोरूढ्या तदेति पाठः] || यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् [ख्: तुष्टिस्तत्र तत्रैव धारयेदिति पाठः] | तत्र तत्र परानन्दस्वरूपं संप्रकाशते || इति | एवमन्यदपि आनन्दपूर्णस्वात्मभावनादिकम् अनुमन्तव्यम् | इत्येवमादयः अत्र मध्यविकासे उपायाः || १८ || मध्यविकासाच्चिदानन्दलाभः स एव च परमयोगिनः समावेशसमापत्त्यादिपर्यायः समाधिः तस्य नित्योदितत्वे युक्तिमाह प्. ४६) समाधिसंस्कारवति व्युत्थाने भूयो भूयश्चिदैक्यामर्शान्नित्योदित- समाधिलाभः || १९ || आसादितसमावेशो योगिवरो व्युत्थाने अपि समाधिरससंस्कारेण क्षीव इव सानन्दं घूर्णमानो भावराशिं [क्: समाधिसंस्कारेति क्षीव इव चात्मानं पूर्यमाणभावेति च पाठः] शरदभ्रलवम् इव चिद्गगन एव लीयमानं पश्यन् भूयो भूयः अन्तर्मुखताम् एव समवलम्बमानो निमीलनसमाधिक्रमेण चिदैक्यमेव विमृशन् व्युत्थानाभिमतावसरे अपि समाध्येकरस एव भवति | यथोक्तं क्रमसूत्रेषु क्रममुद्रया अन्तःस्वरूपया बहिर्मुखः समाविष्टो [क्: बहिर्मुखसमाविष्ट इति समस्तः पाठः] भवति साधकः | तत्रादौ [ख्: तत्र चेत्यस्ति | तत्रादौ इति वाक्यं (ङ० पुस्तकात्) उपन्यस्तम् | ] बाह्यात् अन्तः प्रवेशः आभ्यन्तरात् बाह्यस्वरूपे प्रवेशः [क्: बाह्यानुप्रवेशोऽभ्यन्तरादिति पाठः] आवेशवशात् जायते - इति सबाह्याभ्यन्तरोऽयं मुद्राक्रमः इति | अत्रायमर्थः सृष्टि-स्थिति-संहृतिसंविच्च- प्. ४७) क्रात्मकं क्रमं मुद्रयति स्वाधिष्ठितम् आत्मसात् करोति येयं [ख्: यैव इति पाठः] तुरीया चितिशक्तिः तया क्रममुद्रया अन्तरिति - पूर्णाहन्तास्वरूपया [क्: अन्तरितपूर्णाहन्तारूपयेति पाठः] बहिर्मुख - इति विषयेषु व्यापृतः अपि समाविष्टः - साक्षात्कृतपरशक्तिस्फारः साधकः - परमयोगी भवति | तत्र च बाह्याद् ग्रस्यमानात् विषयग्रामात् अन्तः - परस्यां चिति भूमौ ग्रसनक्रमेणैव प्रवेशः - समावेशो भवति | आभ्यन्तरात् चितिशक्तिस्वरूपात् [ग्: अभ्यन्तरस्थचितिशक्तिरूपादिति पाठः] च साक्षात्कृतात् आवेशवशात् - समावेशसामर्थ्यात् एव बाह्यस्वरूपे [क्: साक्षात्कृतावेशसामर्थ्यादेव बाह्येति; ङ्: साक्षात्कृतात्समावेशसामर्थ्यादेव बाह्येति पाठः] - इदन्तानिर्भासे विषयग्रामे वमनयुक्त्या [ख्, ङ्: वमनेतिस्थाने ग्रसनयुक्त्या इति पाठः] प्रवेशः - चिद्रसाश्यानताप्रथनात्मा समावेशो जायते - इति | सबाह्याभ्यन्तरः अयं नित्योदितसमावेशात्मा मुदो - हर्षस्य वितरणात् परमानन्दस्वरूपत्वात् पाशद्रावणात् विश्वस्य अन्तः प्. ४८) तुरीयसत्तायां [क्: तुरीयदशायाः सत्तायामिति पाठः] मुद्रणात् च मुद्रात्मा क्रमः अपि सृष्ट्यादिक्रमाभासकत्वात् [क्: सृष्ट्यादिक्रमाभासरूपत्वात् च क्रम इति पाठः] तत्क्रमाभासरूपत्वात् च क्रम इति अभिधीयते इति || १९ || इदानीम् अस्य समाधिलाभस्य फलमाह तदा प्रकाशानन्दसारमहामन्त्रवीर्या- त्मकपूर्णाहन्तावेशात्सदा सर्वसर्ग- संहारकारिनिजसंविद्देवताच- क्रेश्वरताप्राप्तिर्भवतीति शिवम् || २० || नित्योदिते समाधौ लब्धे सति प्रकाशानन्दसारा - चिदाह्लादैकघना महती मन्त्रवीर्यात्मिका - सर्वमन्त्रजीवितभूता पूर्णा पराभट्टारिकारूपा या इयम् अहन्ता - अकृत्रिमः स्वात्मचमत्कारः तत्र आवेशात् सदा कालाग्न्यादेः [ख्: सदाशिवान्तं कालाग्न्यादेरित्यादि; क्: सदा कालाग्न्यादीश्वरसतत्त्वकलान्तस्येति पाठः] चरमकलापर्यन्तस्य विश्वस्य यौ सर्गसंहारौ - विचित्रौ सृष्टिप्रलयौ तत्कारि यत् निजं संवि- प्. ४९) द्देवताचक्रं तदैश्वर्यस्य प्राप्तिः - आसादनं भवति प्राकरणिकस्य परमयोगिन [क्: प्राकरणिकयोगिन इति पाठः] इत्यर्थः इति एतत् सर्वं शिवस्वरूपमेव इति उपसंहारः - इति संगतिः | तत्र यावत् इदं [क्, ग्: यदिदम् इति पाठः] किंचित् संवेद्यते तस्य संवेदनमेव स्वरूपं तस्यापि अन्तर्मुखविमर्शमयाः [ख्: अन्तर्मुखमया इति पाठः] प्रमातारः तत्त्वम् तेषामपि विगलितदेहाद्युपाधिसंकोचाभिमाना [ख्, ङ्: देहादिसंकोचेति उपाधि पदहीनः पाठः] अशेषशरीरा सदाशिवेश्वरतैव [क्: सदाशिवेश्वरता तत्रैवेति पाठः] सारम् अस्या अपि प्रकाशैकसद्भावापादिताशेषविश्वचमत्कारमयः श्रीमान् महेश्वर एव परमार्थः [क्: श्रीमहेशः परमार्थ इति पाठः] - नहि पारमार्थिकप्रकाशावेशं विना कस्यापि प्रकाशमानता घटते - स च परमेश्वरः स्वातन्त्र्यसारत्वात् आदि##- पाठः] एतत्स्वीकृतसमस्तवाच्य [ङ्: तत्स्वीकृतेति पाठः] ##- आनन्दमयसंभवापादादिति पाठः] प्. ५०) परं परिपूर्णत्वात् [ङ्: परिपूर्णत्वेनेति पाठः] सर्वाकाङ्क्षाशून्यतया आनन्दप्रसरनिर्भरः अत एव अनुत्तराकुलस्वरूपात् [क्: अनुत्तराकुलसंभवापादनस्वरूपादिति पाठः] अकारात् आरभ्य शक्तिस्फाररूपहकलापर्यन्तं [ख्, ङ्: हकारपर्यन्तम् इति] [हकारो व्योमशक्तिरूपः हकला व्योमकला ततः परं किमपि नास्ति तत्सर्वत्रास्ति तत्र न किंचिदस्तीति भावः |] यत् विश्वं प्रसृतं क्षकारस्य प्रसरशमनरूपत्वात् [ग्: क्षकारस्याप्यप्रसररूपत्वात् अकारेति; क्: क्षकारस्यापिप्रसरणत्वात्तदिति च पाठः] तत् अकार-हकाराभ्यामेव संपुटीकारयुक्त्या प्रत्याहारन्यायेन अन्तः स्वीकृतं सत् अविभागवेदनात्मकबिन्दुरूपतया स्फुरितम् अनुत्तर एव विश्राम्यति - इति शब्दराशिस्वरूप एव अयम् अकृतको विमर्शः | यथोक्तं प्रकाशस्यात्मविश्रान्तिरहं-भावो हि कीर्तितः | उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः || स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च | इति | एषैव च अहन्ता सर्वमन्त्राणाम् उदयवि- प्. ५१) श्रान्तिस्थानत्वात् एतद्बलेनैव च तत्तदर्थक्रियाकारित्वात् महती वीर्यभूमिः [क्: महती वीर्यभूमिः इति वाक्यं नास्ति] | तदुक्तम् तदाक्रम्य बलं मन्त्रा.......................... | इत्यादि ....................ट एते शिवधर्मिणः || इत्यन्तम् श्रीस्पन्दे | शिवसूत्रेषु अपि महाह्रदानुसंधानान्मन्त्रवीर्यानुभवः [शब्दराशिस्फारात्मकपराहन्ताविमर्शो यस्य तस्य मन्त्रवीर्यस्यानुभवः स्वात्मतया स्फुरणं भवतीत्यर्थः |] (१उ० २२सू०) इति | तदत्र महामन्त्रवीर्यात्मिकायां पूर्णाहन्तायाम् आवेशो - देहप्राणादिनिमज्जनात् तत्पदावाप्त्यवष्टम्भेन देहादीनां [क्: देहादीनामपि वा तद्रसेत्यादि पाठः] नीलादीनामपि तद्रसाप्लावनेन तन्मयीकरणम् | तथा हि - देहसुखनीलादि यत् किंचित् प्रथते अध्यवसीयते [ख्: व्यवसीयते इति पाठः] स्मर्यते संकल्प्यते वा तत्र सर्वत्रैव भगवती चितिशक्तिमयी प्रथा भित्तिभूतैव स्फुरति - तदस्फुरणे कस्यापि अस्फुरणात् इति उक्तत्वात् | केवलं तथा स्फुरन्त्यपि सा तन्मायाशक्त्या प्. ५२) अवभासितदेहनीलाद्युपरागदताभिमानवशात् [क्, ग्: उपरागेदन्ताभिमानेति पाठः] भिन्नभिन्नस्वभावा इव भान्ती ज्ञानसंकल्पाध्यवसायादिरूपतया मायाप्रमातृभिः [क्, ग्: रूपताप्रमातृभिरिति पाथः] अभिमन्यते वस्तुतस्तु एकैव असौ चितिशक्तिः | यथोक्तम् या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता | अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः [क्: प्रमाता परमेश्वर इति पाठः] || इति | तथा मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा | कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः || इति | एवम् एषा सर्वदशासु एकैव चितिशक्तिः विजृम्भमाणा यदि तदनुप्रवेश-तदवष्टम्भयुक्त्या समासाद्यते तत् तदावेशात् पूर्वोक्तयुक्त्या करणोन्मीलननिमीलनक्रमेण सर्वस्य सर्वमयत्वात् तत्तत्संहारादौ [ग्: तत्समाधाविति पाठः] अपि सदा सर्वसर्गसंहारकारि यत् सहजसंवित्तिदेवताचक्रम् [ख्, ङ्: यन्निजं संविद्देवेति पाठः] - अमायीयान्तर्बहिष्करणमरीचिपुञ्जः तत्र ईश्वरता [क्: ईश्वरत्वसाम्राज्यपरभैरवात्मा इति पाठः] - प्. ५३) साम्राज्यं परभैरवात्मता तत्प्राप्तिः भवति परमयोगिनः | यथोक्तम् - यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भवौ | नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो [ख्: तदा चक्रेश्वर इति पाठः] भवेत् || इति | अत्र एकत्र इति एकत्रारोपयेत्सर्वम् ............................. | इति | चित्सामान्यस्पन्दभूः [ङ्: इतिवत्सामान्येति; क्: सामान्यभूरुन्मेषेति पाठः] उन्मेषात्मा व्याख्यातव्या [ख्: व्याख्याता इति पाठः] | तस्य इति अनेन पुर्यष्टकेन संरुद्ध............................. | इति | उपक्रान्तं पुर्यष्टकम् एव पराम्रष्टव्यम् न तु यथा विवरणकृतः एकत्र सूक्ष्मे स्थूले शरीरे वा इति व्याकृतवन्तः | स्तुतं च मया स्वतन्त्रश्चितिचक्राणां चक्रवर्ती महेश्वरः | संवित्तिदेवताचक्रजुष्टः कोऽपि जयत्यसौ || इति | इतिशब्द उपसंहारे यत् एतावत् उक्तप्रकरणशरीरं तत् सर्वं शिवम् - शिवप्राप्तिहेतु- प्. ५४) त्वात् शिवात् प्रसृतत्वात् [ग्: शिवात्मसतत्त्वात् इति पाठः] शिवस्वरूपाभिन्नत्वात् च शिवमयमेव इति शिवम् || देहप्राणसुखादिभिः प्रतिकिलं संरुध्यमानो जनः पूर्णानन्दघनामिमां न चिनुते माहेश्वरीं स्वां चितिम् | मध्येबोधसुधब्धि विश्वमभितस्तत्फेनपिण्डोपमं [ङ्: विश्वमखिलमिति पाठः] यः पश्येदुपदेशतस्तु [ङ्: यः पश्यत्युपदेशत इति पाठः] कथितः साक्षात्स एकः शिवः || येषां वृत्तः शांकरः शक्तिपातो येऽनभ्यासात्तीक्ष्णयुक्तिष्वयोग्याः [क्, ग्: युक्तिष्वतीक्ष्णा इति पाठः] | शक्ता ज्ञातुं नेश्वरप्रत्यभिज्ञा- मुक्तस्तेषामेव तत्त्वोपदेशः || समाप्तमिदं प्रत्यभिज्ञाहृदयम् || कृतिस्तत्रभवन्महामाहेश्वराचार्यवर्यश्रीमदभि##- शुभमस्तु || ########### END OF FILE #######